शार्ङ्गधरपद्धतिः /178
This page has not been fully proofread.
वृक्षविशेषान्योक्तयः
अथ सहकारः ।
1015
गाता कोकिल एव ज्ञाता च रसाल एव नियतमिदम् ।
यः पञ्चममुद्गायति यस्यास्थिषु पुलकमुकुलानि ॥ २९ ॥
कस्यापि ।
1016
न तादृकर्पूरे न च मलयजे नो मृगमदे
फले वा पुष्पे वा तव भवति यादृक्परिमलः ।
परं त्वेका दोषस्त्वयि खलु रसालेधिकगुणे
पिके वा काके वा गुरुलघुविशेषं न मनुषे ॥ ३० ॥
कस्यापि ।
1017
उत्तंसकौतुकरसेन विलासिनीनां
तूनानि यस्य न नखैरपि पछवानि ।
उद्यानमण्डनतरी सहकार स त्व-
मङ्गारकारकरगोचरतां गतोसि ॥ ३१ ॥
उत्पलराजस्य ।
1018
कति पल्लविता न पुष्पिता वा
तरवः सन्ति समन्ततो वसन्ते ।
जगतीविजये तु पुष्पकेतो:
सहकारी सहकार एक एव ॥ ३२ ॥
कस्यापि ।
१६३
1019
यो दृष्टः स्फुटदस्थिसंपुटवशानिर्यलवालाङ्करो
दैवात्स द्विदलादिकक्र मवशादारूढ शाखाशतः ।
स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छदं पुष्पितः
सोत्कर्ष फलितो भृशं च नमितः कोष चूतद्रुमः ॥ ३३॥
हेतुकस्य ।