This page has been fully proofread once and needs a second look.

१६०
 
शार्ङ्गधरपद्धतिः
 

अथागुरुः ।
 

1000
 

अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये ।

दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेपि ॥ १४ ॥
 

वल्लभदेवस्य ।
 

1001
 

आरामाभरणस्य पद्धल्लवचयैरापीततिग्मत्विषः

पाथोद प्रशमं नयागुरुतरोरेतस्य दाहज्वरम् ।

ब्रूमस्त्वामुपकारकातर गतप्रायाः पय: संपदो

दग्धोप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति ॥ १५ ॥
 

अथ चम्पकः ।
 

1002
 

अन्तः प्रतप्तमरुसैकतदद्ह्यमान-

मूलस्य चम्पकतरोः क्व विकासचिन्ता ।

प्रायो भवत्यनुचितस्थितिदेशभाजां
 

श्रेयः स्वजीवपरिपालनमात्रमेव ॥ १६ ॥

धर्मवर्धनस्य ।
 

1003
 

केनापि चम्पकतरो त रोपितोसि
 

कुग्रामपामरजनान्तिकवाटिकायाम् ।

यत्र प्ररूढनवशाकविवृद्धलोभा-

द्
गोभग्नवाटघटनोचितपद्धल्लवोसि
 
अथाशोक ।
 
1004
 
॥ १७ ॥

विज्जाकायाः ।
 

अथाशोक ।
1004
किं ते नम्रतया किमुन्नततया किं वा घनच्छायथा
या
किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया ।

यत्त्
वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं
 

न स्वादूनि मृदुनिंदूनि खादति फलान्याकण्मुत्कण्ठितः ॥ १८ ॥
 

श्रीभोजदेवस्थ ।
 
य ।