This page has not been fully proofread.

१६०
 
शार्ङ्गधरपद्धतिः
 
अथागुरुः ।
 
1000
 
अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये ।
दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेपि ॥ १४ ॥
 
वल्लभदेवस्य ।
 
1001
 
आरामाभरणस्य पद्धवचयैरापीततिग्मत्विषः
पाथोद प्रशमं नयागुरुतरोरेतस्य दाहज्वरम् ।
ब्रूमस्त्वामुपकारकातर गतप्रायाः पय: संपदो
दग्धोप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति ॥ १५ ॥
 
अथ चम्पकः ।
 
1002
 
अन्तः प्रतप्तमरुसैकतदद्यमान-
मूलस्य चम्पकतरोः क विकासचिन्ता ।
प्रायो भवत्यनुचितस्थितिदेशभाजां
 
श्रेयः स्वजीवपरिपालनमात्रमेव ॥ १६ ॥
धर्मवर्धनस्य ।
 
1003
 
केनापि चम्पकतरो वत रोपितोसि
 
कुग्रामपामरजनान्तिकवाटिकायाम् ।
यत्र प्ररूढनवशाकविवृद्धलोभा-
गोभमवाटघटनोचितपद्धवोसि
 
अथाशोक ।
 
1004
 
॥ १७ ॥
विज्जाकायाः ।
 
किं ते नम्रतया किमुन्नततया किं वा घनच्छायथा
किं वा पलवलीलया किमनया चाशोक पुष्पश्रिया ।
यवन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं
 
न स्वादूनि मृदुनिं खादति फलान्याकण्डमुत्कण्ठितः ॥ १८ ॥
 
श्रीभोजदेवस्थ ।