This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां

धिग्जातिं द्रुमसंकथासु यदयं कल्पद्रुमोपि द्रुमः ॥ २ ॥
 

रल्
हणस्य ।
 
१५८
 

अथ पारिजातः ।
 

989
 

परिमलसुरभितनभसो बहवः कनकाद्रि परिसरे तरवः ।

तदपि मुराणां चेतसि निवसितमित्र पारिजातेन ॥ ३ ॥

श्रीवल्लभदेवस्य ।
 

अथ चन्दनम् ।
 

990
 

सन्त्येव गिलिताकाशा महीयांसो महीरुहाः ।

तथापि जनताचित्तानन्दनश्चन्दनद्रुमः ॥ ४ ॥
 

हरिगणस्य ।
 

991
 

कान्ताकेलिं कलयतु तरुः कोपि कश्रित्प्रभूणा-

मत्यानन्दं जनयतु फलैः कोपि लोकान्धिनोतु ।

धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं

संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥ ५ ॥

शार्ङ्गधरस्य ।
 

992
 

केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः

केप्यन्ये फलधारिणः प्रतिदिशं ते सन्तु हन्त द्रुमाः ।

न्योयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः

शाखोटादिभिरण्प्यहो मृगदृशामङ्गेषु लीलायितम् ॥६॥
 

श्रीपुष्पा करदेवस्य ।
 

993
 

भ्रातश्चन्दन किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा

गन्धस्यापि महाविषाः फणभूभृतो गुप्त्यै यदेते कृताः ।
दे

दै
वात्पुम्ष्पफलान्वितो यदि भवानत्राभविष्यत्तदा
 

नो जाने किंमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ७ ॥
 

श्री भोजदेवस्य ।