This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां
धिग्जातिं द्रुमसंकथासु यदयं कल्पद्रुमोपि द्रुमः ॥ २ ॥
 
रहणस्य ।
 
१५८
 
अथ पारिजातः ।
 
989
 
परिमलसुरभितनभसो बहवः कनकाद्रि परिसरे तरवः ।
तदपि मुराणां चेतसि निवसितमित्र पारिजातेन ॥ ३ ॥
श्रीवल्लभदेवस्य ।
 
अथ चन्दनम् ।
 
990
 
सन्त्येव गिलिताकाशा महीयांसो महीरुहाः ।
तथापि जनताचित्तानन्दनश्चन्दनद्रुमः ॥ ४ ॥
 
हरिगणस्य ।
 
991
 
कान्ताकेलिं कलयतु तरुः कोपि कश्रित्यभूणा-
मत्यानन्दं जनयतु फलैः कोपि लोकान्धिनोतु ।
धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं
संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥ ५ ॥
शार्ङ्गधरस्य ।
 
992
 
केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः
केप्यन्ये फलधारिणः प्रतिदिशं ते सन्तु हन्त द्रुमाः ।
भन्योयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः
शाखोटादिभिरण्यहो मृगदृशामङ्गेषु लीलायितम् ॥६॥
 
श्रीपुष्पा करदेवस्य ।
 
993
 
भ्रातअन्दन किं ब्रवीमि विकटस्फर्जत्फणाभीषणा
गन्धस्यापि महाविषाः फणभूतो गुप्त्यै यदेते कृताः ।
देवात्पुम्पफलान्वितो यदि भवानत्राभविष्यत्तदा
 
नो जाने किंमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ७ ॥
 
श्री देवस्य ।