शार्ङ्गधरपद्धतिः /172
This page has not been fully proofread.
वृक्षविशेषान्योक्तयः
983
पान्थाधार इति द्विजाश्रय इति श्लाघ्यस्तरूणामिति
स्निग्धच्छाय इति प्रियो दृश इति स्थानं गुणानामिति ।
पर्यालोच्य महातरो तव धनच्छायां वयं संश्रिता-
स्तत्त्वत्कोटर वासिनो द्विरसना दूरीकरिष्यन्ति नः ॥ १४ ॥
984
हिमसमयो वनवह्निर्जवनः पवनस्तडिल्लताविभवः ।
हन्त सहन्ते यावत्ताबहुम कुरु परोपकृतिम् ॥ १५ ॥
985
ये पूर्व परिपालिताः फलभरच्छायादिभिः प्राणिनो
विश्रामद्रुम कथ्यतां तव विपत्काले व ते सांप्रतम् ।
एता: संगतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो
यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वाये ॥ १६ ॥
986
वृद्धिर्यस्य तरोर्मनोरथ शतैराशावता प्रार्थिता
जातोसौ सरसः प्रकामफलदः सर्वाश्रितोपाश्रयः ।
नानादेशसमागतैरविदितैराक्रान्तमन्यैः खगे-
स्तं लब्धावसरोपि वृद्धशकुनिर्दूरे स्थितो वीक्षते ॥ १७ ॥
केषामध्येते ।
अथ वृक्षविशेषान्योक्तयः ॥ ५९ ॥
तत्र पूर्व कल्पवृक्षः ।
१५७
987
कल्पनुमोपि कालेन भवेयदि फलप्रदः ।
को विशेषस्तदा तस्य वन्यैरन्यैर्महीरुहैः ॥ १ ॥
कस्यापि ।
988
स्वर्णे: स्कन्धपरिग्रहो मरकतैरुल्लासिताः पल्लवा
मुक्ताभि: स्तबकश्रियो मधुलिहां वृन्दानि नीलोत्पलैः ।