This page has been fully proofread once and needs a second look.

१५६
 
शार्ङ्गधरपद्धतिः
 

977
 

पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।
 

धन्या महीरुहो येभ्यो निराशा यान्ति नार्थिनः ॥ ८ ॥
 

978
 

छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।

मार्गदुद्रुमा महान्तश्च परेषामेव भूतये ॥ ९ ॥
 

979
 

भुक्तं स्वादु फलं कृतं च शयनं शाखाग्रजै: पल्लवै-

स्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतश्रमैः ।

विश्रान्ताः सुचिरं परं सुमनसः प्रीतिः किमत्रोच्यते

त्वं सन्मार्गतरुर्वयं च पथिका यामः पुनर्दर्शनम् ॥ १० ॥
 

केषामध्प्येते ।
 

980
 

भुक्तानि यैस्तव फलानि पत्रेचेलिमानि

क्रोडस्थितैरहह वीतभयैः प्रसुप्तम् ।

ते पक्षिणो जलरयेण विकृष्यमाणं

पश्यन्ति पादप भवन्तममी तटस्थाः ॥ ११ ॥

श्रीमहादेवस्य ।
 

981
 

विपन्नं पद्मिन्या मृतमनिमिषैर्यातमलिभिः

खगैरप्युड्डीनं रथचरणहंसप्रभृतिभिः ।

दशां दीनां नीते सरसि विषमग्रीष्मदिवसः

कुलीनत्वादास्ते तटरुहरु: कोपि तदपि ॥ १२ ॥
 

नागपैयस्य ।
 

982
 

शाखोटशाल्मलिपलाशकरीरकाद्याः
 

शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः

युष्मभ्यमर्पयतु पल्लवपुष्पलक्ष्मीं

सौरभ्यसंभवविधिस्तु विधेरधीनः ॥ १३ ॥
 

गाङ्गदेवस्य ।