This page has not been fully proofread.

१५६
 
शार्ङ्गधरपद्धतिः
 
977
 
पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।
 
धन्या महीरुहो येभ्यो निराशा यान्ति नार्थिनः ॥ ८ ॥
 
978
 
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।
मार्गदुमा महान्तश्च परेषामेव भूतये ॥ ९ ॥
 
979
 
भुक्तं स्वादु फलं कृतं च शयनं शाखामजै: पलवै-
स्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतश्रमैः ।
विश्रान्ताः सुचिरं परं सुमनसः प्रीतिः किमत्रोच्यते
त्वं सन्मार्गतरुवयं च पथिका यामः पुनर्दर्शनम् ॥ १० ॥
 
केषामध्येते ।
 
980
 
भुक्तानि यैस्तव फलानि पत्रेलिमानि
क्रोडस्थितैरहह वीतभयैः प्रसुप्तम् ।
ते पक्षिणो जलरयेण विकृष्यमाणं
पश्यन्ति पादप भवन्तममी तटस्थाः ॥ ११ ॥
श्रीमहादेवस्य ।
 
981
 
विपन्नं पद्मिन्या मृतमनिमिषैर्यातमलिभिः
खगैरप्युड्डीनं रथचरणहंसप्रभृतिभिः ।
दशां दीनां नीते सरसि विषमग्रीष्मदिवसः
कुलीनत्वादास्ते तटरुहरु: कोपि तदपि ॥ १२ ॥
 
नागपैयस्य ।
 
982
 
शाखोटशाल्मलिपलाशकरीरकाद्याः
 
शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः
युष्मभ्यमर्पयतु पल्लवपुष्पलक्ष्मीं
सौरभ्यसंभवविधिस्तु विधेरधीनः ॥ १३ ॥
 
गाङ्गदेवस्य ।