This page has been fully proofread once and needs a second look.

सामान्यवृक्षान्योक्तयः
 

हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकषण-

क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥ १ ॥
 

भवन्तज्ञानवर्मणः ।
 

972
 

छाया सुप्तमृगः शकुन्तनिवहैर्विष्ठाविलिप्तच्छदः

कीरैरावृतकोटर: कपिकुलैः स्कन्धे कृतप्रश्रयः ।

विस्रब्धं मधुपैर्निपीतकुसुमः श्लाग्यःघ्य: स एकस्तरु-

र्यत्राङ्गीकृतसत्त्वसंप्लवभरे भग्नापदोन्ये द्रुमाः ॥ २ ॥
 

बीजकस्य ।
 

973
 

शाखा शतचितवियतः सन्ति क्रिकियन्तो न कानने तरवः ।

रिमलभरमिलदलिकुलदलितदला: शाखिनो विरलाः ॥३॥

श्रीवैद्यमाभानुपण्डितस्य ।
 

974
 

गतास्ते विस्तीर्णस्तबकभर सौरभ्यलहरी-

परीतव्योमान: प्रकृतिगुरवः केपि तरत्रःवः

इहोद्याने संप्रत्यहह परिशिष्टाः क्रमवशा-

दमी वल्मीकास्ते भुजगकुललीलावसतयः ॥ ४ ॥
 

975
 

तीव्रो निदाघसमयो बहुपथिकजनश्च मारवः पन्थाः ।

मार्गस्थस्तरुरेक: कियतां संतापमपनयति ॥ ५ ॥

प्रत्ययैः पत्रनिचयैस्तरुर्यैरेव शोभितः ।

जहाति जीर्णीणांस्तानेव किं वा चित्रं कुजन्मनः ॥ ६ ॥
 
१५५
 
J
 

976
 

रोलम्बैर्न विलम्बितं विघटितं धूमाकुलै: कोकिलै-

र्मा
यूरैश्चलितं पुरैव रभसा कीरैरवीधीरैर्गतम् ।
 

एकेनापि सपल्लवेन तरुणा दावानलोपप्लवः
 

सोढः को न विपत्सु मुञ्चति जनो मूर्ध्नापि यो लालितः ॥७॥