This page has been fully proofread once and needs a second look.

२ शार्ङ्गधरपद्धतिः

भागीरथ्यां शुद्धदेहं विधाय
ज्ञानादात्मन्येव निष्ठां जगाम ॥ ५ ॥

6

ज्येष्ठः शार्ङ्गधरस्तेषां लघुर्लक्ष्मीधरस्ततः ।
कृष्णोनुजस्ततस्तेषां त्रयस्त्रेताग्नितेजसः ॥ ६ ॥

7

जयति शार्ङ्गधरस्त्रिपुरापद-
द्वयकुशेशयकोशमधुव्रतः ।
सरससूक्तिसुधौघकलानिधिः
कविकरीन्द्रकदम्बमृगाधिपः ॥ ७ ॥

8

यद्यपि गुणौघनिलयः खलशैलध्वंसने जिष्णुः ।
तदपि विमलहृदयान्तरसज्जनलोकस्य दासोसौ ॥ ८ ॥

9

ते सज्जनाः सुकविशाखिकवित्वपुष्पा-
ण्यादाय गुम्फितवतः सुगुणैर्ममैतत् ।
संधारयन्तु कुसुमोज्ज्वलहाररूपं
कण्ठे सुभाषितमपास्तसमस्तदोषम् ॥ ९ ॥

10

न शार्ङ्गधरपद्धतिः खलजनस्य योग्या भवे-
त्सुभाषितरसोर्मयः सुकृतिलोकपेया यतः ।
सुधामदितिनन्दना दिवि पिबन्ति हृष्टान्तरा-
स्तयैव तमसः शिरो झटिति खण्डितं श्रूयते ॥ १० ।

11

आनन्दाय सतां भूयात्सुभाषितमिदं मम ।
पृथक्पद्धतिसंमिश्रपरिच्छेदैर्मनोरमम् ॥ ११ ॥

12

आद्यैर्मद्विहितैः पद्यैः कियद्भिरपरैरपि ।
युता पद्धतिरेषास्तु सज्जनानन्ददायिनी ॥ १२ ॥

----------