This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 

 
इह द्रङ्गे नान्यस्तव गुणसमानस्तदधुना

धुनानेन स्कन्धं धवल किमु मुक्तः पथि भरः ॥ ६ ॥
 

967
 

न ध्वानं कुरुषे न यासि विकटं नोच्चैर्वहस्याननं

दर्पान्नो लिखसि क्षितिं खुरपुटैर्नावज्ञया वीक्षसे ।

किं तु त्वं वसुधातलेलैकधवल स्कन्धाधिरूढे भरे

तीराण्युच्चतटीविटङ्कविषमाण्युद्धल्लन्घयन्वीक्ष्यसे ॥ ७ ॥
 

 
968
 

 
यस्यादौ व्रजमण्डनस्य बहतो गुर्वी धुरं धैर्यतो

धोरेयै: प्रगुणीकृतो न युगपत्स्कन्धः समस्तैरपि ।

तस्यैव शृंथकम्बलस्य धवलस्योत्थापने सांप्रतं

द्रङ्गेत्रैव जरावसादिततनोग: पुण्यमुझेष्यते ॥ ८ ॥
 

 
969
 

 
एतानि बालधवल प्रविहाय कामं

गोष्टाङ्गणे तरलतर्गकचेष्टितानि ।

स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो

नेतव्यतामुपगतोस्ति तवैष भारः ॥ ९ ॥
 

 
370
 

 
न खनति खुरैः क्षोणीपृष्ठं न नदेति सादर

प्रकृतिपरुषं प्रेक्ष्याप्यमे न कुप्यति गोचरम् ।

वहति च धुरं धुर्यो धैर्यादनुद्धतकंधरो

जगाते गुणिनः कार्योदार्यात्परानतिशेरते ॥१०॥
 

 
केषामप्येते .
 

 
अथ सामान्यवृक्षान्योक्तयः ॥ ५८ ॥
 

 
971
 

 
कि जातोसि चतुष्पथे घनतरं छन्नोसि किं छायया

छन्न श्रेत्फलितोसि किं फलभरैरायोसि किं संनतः ।