This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
इह द्रङ्गे नान्यस्तव गुणसमानस्तदधुना
धुनानेन स्कन्धं धवल किमु मुक्तः पथि भरः ॥ ६ ॥
 
967
 
न ध्वानं कुरुषे न यासि विकटं नोचैर्वहस्याननं
दर्पान्नो लिखसि क्षितिं खुरपुटैनवज्ञया वीक्षसे ।
किं तु त्वं वसुधातलेकधवल स्कन्धाधिरूढे भरे
तीराण्युचतटीविटङ्कविषमायुद्धयन्वीक्ष्यसे ॥ ७ ॥
 
968
 
यस्यादौ व्रजमण्डनस्य बहतो गुर्वी धुरं धैर्यतो
धोरेयै: प्रगुणीकृतो न युगपत्स्कन्धः समस्तैरपि ।
तस्यैव शृंथकम्बलस्य धवलस्योत्थापने सांप्रतं
द्रङ्गेत्रैव जरावसादिततनोग: पुण्यमुझेष्यते ॥ ८ ॥
 
969
 
एतानि बालधवल प्रविहाय कामं
गोष्टाङ्गणे तरलतर्गकचेष्टितानि ।
स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो
नेतव्यतामुपगतोस्ति तवैष भारः ॥ ९ ॥
 
370
 
न खनति खुरैः क्षोणीपृष्ठं न नदेति सादर
प्रकृतिपरुषं प्रेक्ष्याप्यमे न कुप्यति गोचरम् ।
वहति च धुरं धुर्यो धैर्यादनुद्धतकंधरो
जगाते गुणिनः कार्योदार्यात्परानतिशेरते ॥१०॥
 
केषामप्येते .
 
अथ सामान्यवृक्षान्योक्तयः ॥ ५८ ॥
 
971
 
कि जातोसि चतुष्पथे घनतरं छन्नोसि किं छायया
छन्न श्रेत्फलितोसि किं फलभरैरायोसि किं संनतः ।