This page has been fully proofread once and needs a second look.

11
 

अथ
वृषभान्योक्तयः
 
अथ वृषभान्योक्तयः
॥ ५७ ॥
 

961
 

नास्य भारग्रहे शक्तिर्न च वाहगुणः कृतौ ।

देवागारबलीवर्दस्तथाप्यायश्नाति शोभनम् ॥ १ ॥
 

962
 

अनसि सीदति सैकतवर्त्मनि

प्रचुरभारभरक्षपितौक्षके ।

गुरुभरोद्धरणोद्धुरकंधरं
 

स्मरति सारथिरद्य धुरंधरम् ॥ २ ॥
 
१५३
 

963
 

मार्गे कर्दमदुर्गमे जलभृते गर्ताशतैराकुले

खिन्ने शाकटिके भरेतिविषमे दूरं गते रोधसि ।

शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी-

मीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को धुरम् ॥ ३ ॥
 

964
 

दन्ताः सप्त चलं विषाणयुगलं पुच्छाञ्चलः कर्बुरः

कुक्षिश्चन्द्रकिता वपुः कुसुमितं सव्यच्युतं चेष्टितम् ।

अस्मिन्दुष्टवृषे वृषाग्रिमगुणग्रामानभिज्ञात्मनो

ग्रामीणस्य तथापि चेतसि चिरं धुर्यभ्रमः स्फूर्जति ॥ ४ ॥
 

965
 

कासांचिद्धवलश्चिरं निवसतां चित्तेपरासां पुन-

र्नीलो वा कपिलोथवा वरवृषो रक्तोथवा मेचकः ।

ग्रामीणैरवधीरितोपि शिथिलस्कन्धोप्यनूर्ध्वश्रवाः

स्वान्ते मे परतन्त्रतुन्दिलतनुर्जागर्त्ययं कर्बुरः ॥ ५ ॥
 

श्रीचन्द्रस्य ।
 

966
 

गुरुनाथंनोयं भारः क्वचिदपि न पन्थाः स्थपुटितो

न ते कुण्ठा शक्तिर्वहनमपि तेङ्गे न विकलम् ।