This page has not been fully proofread.

11
 
वृषभान्योक्तयः
 
अथ वृषभान्योक्तयः ॥ ५७ ॥
 
961
 
नास्य भारग्रहे शक्तिर्न च वाहगुणः कृतौ ।
देवागारबलीवर्दस्तथाप्याति शोभनम् ॥ १ ॥
 
962
 
अनसि सीदति सैकतवर्त्मनि
प्रचुरभारभरक्षपितौक्षके ।
गुरुभरोद्धरणोद्धुरकंधरं
 
स्मरति सारथिरद्य धुरंधरम् ॥ २ ॥
 
१५३
 
963
 
मार्गे कर्दमदुर्गमे जलभृते गर्ताशतैराकुले
खिन्ने शाकटिके भरेतिविषमे दूरं गते रोधसि ।
शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी-
मीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को धुरम् ॥ ३ ॥
 
964
 
दन्ताः सप्त चलं विषाणयुगलं पुच्छाञ्चलः कर्बुरः
कुक्षिश्चन्द्रकिता वपुः कुसुमितं सव्यच्युतं चेष्टितम् ।
अस्मिन्दुष्टवृषे वृषाग्रिमगुणग्रामानभिज्ञात्मनो
ग्रामीणस्य तथापि चेतसि चिरं धुर्यभ्रमः स्फूर्जति ॥ ४ ॥
 
965
 
कासांचिद्धवलश्चिरं निवसतां चित्तेपरासां पुन-
र्नीलो वा कपिलोथवा वरवृषो रक्तोथवा मेचकः ।
ग्रामीणैरवधीरितोपि शिथिलस्कन्धोप्यनूर्ध्वश्रवाः
स्वान्ते मे परतन्त्रतुन्दिलतनुर्जागर्त्ययं कर्बुरः ॥ ५ ॥
 
श्रीचन्द्रस्य ।
 
966
 
गुरुनाथं भारः कचिदपि न पन्थाः स्थपुटितो
न ते कुण्ठा शक्तिर्वहनमपि तेङ्गे न विकलम् ।