This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

 
सोयं संप्रति याति वाबालकरभः क्षीणोद्यमः क्षामतां

मन्ये नूनमनेन दैवहतकेनास्वादितं तन्मधु ॥ ६ ॥
 

956
 

पीलूनां फलवत्कपाषायमधुरं रोमन्थायित्वा मरी
रौ
शाखामंग्रं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः ।

तत्स्मृत्वा करभेण खेदविधुरं दीर्घं तथा फूत्कृतं

प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा ॥ ७ !!
 

957
 

दुष्प्रापमम्बु पवनः परुषोतितापी

छायाभूभृतो न तरवः फलभारनत्राः ।

इत्थं सखे करभ वच्मि भवन्तमुच्चैः

का संगतिः खलु मरौ रमणीयतायाः ॥ ८ ॥
 

958
 

अस्याननस्य भवतः खलु कोटिरेषा

कण्टारिका यदि भवेदविशर्णिशीर्णपर्णा ।

योग्या कथं करभ कल्पतरोर्लताया-

स्ते पल्लवा विमलविद्रुमभङ्गभाजः ॥ ९ ॥
 

959
 

दासेरको रसत्येष युक्तं भारेधिरोहति ।

उत्तार्यमाणेपि पुनर्यत्तत्र किमु कुर्महे ॥ १० ॥
 

केषामध्प्येते ।
 

960
 

करभदयिते यत्तत्पीतं सुदुर्लभमेकदा

मधु वनगतं तस्यालाभे विरोरौषि किमुत्सुका ।

कुरु परिचितैः पीलो: पत्रैर्धृतितिं मरुगोचरै-

र्
जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ ११ ॥
 

भगवतो व्यासस्य ।