This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
सोयं संप्रति याति वालकरभः क्षीणोद्यमः क्षामतां
मन्ये नूनमनेन दैवहतकेनास्वादितं तन्मधु ॥ ६ ॥
 
956
 
पीलूनां फलवत्कपायमधुरं रोमन्थायित्वा मरी
शाखामं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः ।
तत्स्मृत्वा करभेण खेदविधुरं दीर्घ तथा फूत्कृतं
प्राणानामभवत्तदेव सहसा प्रस्थानतूर्य यथा ॥ ७ !!
 
957
 
दुष्प्रापमम्बु पवनः परुषोतितापी
छायाभूतो न तरवः फलभारनत्राः ।
इत्थं सखे करभ वच्मि भवन्तमुच्चैः
का संगतिः खलु मरौ रमणीयतायाः ॥ ८ ॥
 
958
 
अस्याननस्य भवतः खलु कोटिरेषा
कण्टारिका यदि भवेदविशर्णिपर्णा ।
योग्या कथं करभ कल्पतरोलताया-
स्ते पलवा विमलविद्रुमभङ्गभाजः ॥ ९ ॥
 
959
 
दासेरको रसत्येष युक्तं भरेधिरोहति ।
उत्तार्यमाणेपि पुनर्यत्तत्र किमु कुर्महे ॥ १० ॥
 
केषामध्येते ।
 
960
 
करभदयिते यत्तत्पीतं सुदुर्लभमेकदा
मधु वनगतं तस्यालाभे विरोषि किमुत्सुका ।
कुरु परिचितैः पीलो: पत्रैधृति मरुगोचरै-
जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ ११ ॥
 
भगवतो व्यासस्य ।