This page has not been fully proofread.

१५०
 
शार्ङ्गधरपद्धतिः
 
945
 
वसन्त्यरण्येषु चरन्ति दूर्वा
पिवन्ति तोयान्यपरिग्रहाणि ।
 
तथापि वध्या हरिणा नराणां
 
को लोकमाराधयितुं समर्थः ॥ ९ ॥
 
946
 
मुक्तापीडस्य ।
 
आ: कष्टं वनवाससाम्यकृतया सिद्धाश्रमश्रद्धया
पहीं बालकुरङ्ग संप्रति कुतः प्राप्नोसि मृत्योर्मुखम् ।
यत्राने ककुरङ्गकोटिकदनक्रीडोल्लसलोहित-
स्रोनोभिः परिपूरयन्ति परिखामुामरा: पामराः ॥ १० ॥
 
चिल्हणस्य ।
 
947
 
स्वच्छन्दं हरिणेन या विरहिता दैवात्समासादिता
भङ्गप्रस्रुतदुग्धविन्दुमधुरा शालेर्नवा मञ्जरी ।
निःश्वासानलदग्धकोमलतूणप्रख्यापितान्तर्यथ-
स्तामेव प्रतिवासर सुनिरिव ध्यायन्त्रने शुन्याते ॥ ११ ॥
 
धर्मकीर्तेः
 
948
 
सेयं स्थली नवतृणाङ्कुरजालमेत-
स्मेयं मृगीति हृदि जातमदः कुरङ्गः ।
 
नैवं तु वेत्ति यदिहान्तरितो लताभि-
रायाति सज्जितकटोरशरः किरातः ॥ १२ ॥
 
इन्द्रकयेः ।
 
949
 
रोमन्थमारचय मन्थर मेत्य निद्रां
 
मुञ्च श्रमं तदनु संचर रे यथेच्छम् ।
 
दूरे स पामरजनो मुनयः किलेते
निष्कारण हरिणपोत विभेषि कस्मात् ॥ १३ ॥
 
धर्मवर्धनस्य ।