This page has not been fully proofread.

गजान्योक्तयः
 
928
 
घासमासं गृहाण त्यज करिकलभ प्रीतिबन्धं करिण्याः
पाशमन्यित्रणानामविरलमधुना देहि पानुलेपम् ।
दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्धान्तहृष्य -
देवातीरोपकण्ठच्युतकुसुमर जोधूसरा विन्ध्यपादाः ॥ ११ ॥
 
केषामप्येते ।
 
929
 
दानार्थिनो मधुकरा यदि कर्णतालै-
दूरीकृता: करिवरेण मदान्धबुद्धया ।
तस्यैव गण्डयुगमण्डनहानिरेषा
 
भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ १२ ॥
 
कस्यापि ।
 
930
 
आरामोयननर्गलेन बलिना भग्नः समयो मये-
त्यन्तः संभृतहर्षवर्धितमदोदयं किमुन्माद्यसि ।
मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वर-
स्तत्रापि प्रतिकार महासे सखे सम्यक्समालोचितम् ॥ १३ ॥
 
931
 
गले पाशस्तीत्रश्चरणयुगले गाढानगडो
 
बुढः स्कन्धे बन्धः शिरसि सृणिपात: खरतरः ।
नरः स्कन्धारूढा बत मरणयोग्येपि विषये
 
न जानीमोत्यर्थ हिरद वद कस्मात्तव मदः ॥ १४ ॥
 
932
 
को पथसि लघीयसि तापेन करः प्रसारित करिणा ।
सोपि न पयसा लिमो लाघवमात्मा पर नीतः ॥ १५ ॥
 
१४७
 
933
 
कौपं वारि विलोक्य वारणपते किं विस्मितेनास्यते
प्रायो भाजनमस्य संप्रति भवांस्तत्पीयता मादरात् ।