This page has been fully proofread once and needs a second look.


अथ
गजान्योक्तयः
 
अथ गजान्योक्तयः
॥ ५४ ॥
 

918
 

नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवे

पीतं येन सरोजपत्रपुटके होमावशेषं पयः ।

तं पश्चान्मदमन्थरालिवलयव्यालुप्तगण्डं गजं

सानन्दं समयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥ १ ॥
 

कस्यापि ।
 

919
 

कर्णे चामर चारुकम्बुकलिकाः कण्ठे मणीनां गणः

सिन्दूरप्रकरः शिरं: परिसरे पार्श्वान्तिके किङ्किणी ।

लब्धथेश्चेन्नृपवाहनेन करिणा बद्धेन भृषाविधि-
स्तर्टिक

स्तत्किं
भूरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥ २ ॥
 

कस्यापि ।
 

920
 

केलिं कुरुष्व परिभुद्धङ्क्ष्व सरोरुहागि

गाहस्व शैलतट निर्झरिणीपयांसि ।

भावानुरक्तकरिणीकरलालिताङ्ग
 

मातङ्ग मुञ्च मृगराजरणाभिलाषम् ॥ ३ ॥

आनन्दवर्धनस्य

 

921
 

पीतं यत्र हिमं पयः कवलिता यस्मिन्मृणालाङ्कुरा-

स्ता
पार्तेन निमज्य यत्र सरसो मध्ये विमुक्तः श्रमः ।

धिक्तस्यैव जलानि पङ्किलयतः पाथोजिनीं मथ्नतः

कूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो जायते ॥ ४ ॥
 

922
 
हेदा

रेवा
वारिणि वारणेन विपुले राजीवराजीरज:-

पुजापिञ्जरितोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे ।

धौतं येन मृगारिरक्तमसकृद्दन्तान्तराले स्थितं

कौपं सोपि पयः पौ हतविधेः को गोचरे नागतः ॥ ५ ॥

कयोरव्प्येतौ ।
 
-
 
१४५