This page has been fully proofread once and needs a second look.

अथ कविवंशवर्णनम् ॥ १ ॥
 
1
 
यस्मिन्बुद्बुदसंकरा इव बहुब्रह्माण्डखण्डाः क्वचि-
द्भान्ति क्वापि च सीकरा इव विरिञ्च्याद्याः स्फुरन्ति भ्रमात् ।
चिद्रूपा लहरीव विश्वजननी शक्तिः क्वचिद्द्योतते
स्वानन्दामृतनिर्भरं शिवमहापाथोनिधिं तं नुमः ॥ १ ॥
 
2
 
पुरा शाकंभरीदेशे श्रीमान्हम्मीरभूपतिः |
चाहुवामाणान्वये जातः ख्यातः शौर्य इवार्जुनः ॥ २ ॥
 
3
 
तस्याभवत्सभ्यजनेषु मुख्यः
परोपकार व्यसनै कनिष्ठः ।
पुरंदरस्थेत्रयेव गुरुर्गरीया-
न्द्रिविजाग्रणी राघवदेवनामा || ३ ||
 
4
 
गोपालदामोदरदेवदास-
संज्ञा बभूवुस्तनयास्तदीयाः |
नेत्रावतारा इव चन्द्रमौले-
रपाकृतध्वान्तगणास्त्रोपरयोपि || ४ ||
 
5
 
तेषां मध्ये यस्तु दामोदरोभू-
दुत्पाद्य त्रीनात्मजान्वीतरागः |