This page has not been fully proofread.

१२४
 
शार्ङ्गबरपद्धतिः
 
913
 
मामाणामुपशल्यसीमनि मदोद्रेकस्फुरत्सौष्ठवाः
फेत्कारध्वनिमुद्गिरन्ति बहवः संभूय गोमायवः ।
सोन्यः कोपि घनाघनध्वनिधनः पारीन्द्रगुञ्जारवः
गुप्यगण्डमलोलगुण्डमचलत्कर्ण गजैर्यः श्रुतः ॥ १४ ॥
 
रहणस्य ।
 
914
 
एण: क्रीडति सूकर खनति द्वीपी च गर्वायते
क्रोटा कन्दति बलगते च शशको वेगानुरूवति ।
निःशङ्कः करिपोतकस्तरुलतामुन्मोटते लीलया
हंहो सिंह विना त्वयाद्य विपिने की
 
915
 
॥ १५ ॥
 
कस्यापि ।
 
रे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोठं वह
न्वन्यानामवलम्बनं वनमिदं भकुं यदुत्कण्ठते ।
दृष्टस्तत्किमहो महोन्नतधराधौरेयधात्रीधर-
प्रस्थमस्थित मैथमथनोत्कण्ठी न कण्डीरवः ॥ १६ ॥
 
बिल्हणस्य ।
 
916
 
यस्यावन्ध्यरुपः प्रतापत्रसतेनदेन धैर्यदुहा
शुष्यन्ति स्म महप्रवाहसरितः सद्योपि दिग्दन्तिनाम ।
देवात्कष्टदशावशं गतवतः सिंहस्य तस्याचुना
कर्पत्येव करेण केसरसटाभार जरत्कुञ्जरः ॥ १७ ॥
 
कस्यापि ।
 
917
 
यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोप्यन्तिकं
नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् ।
तस्मिन्कौतुर्किना त्वया करिपती लुप्ने कपोलस्थली-
भृङ्गः कैंसरिवीर संप्रति पुनः कुत्रैष विश्राम्यतु ॥ १८ ॥
 
कस्यापि !