This page has been fully proofread once and needs a second look.

सिंहान्योक्तयः
 

तेजोबीजमजेयमस्य हृदये न्यस्तं पुनर्वेधसा

तादृत्वाक्त्तादृशमेव येन सुतरां भोज्यं पशुं मन्यते ॥ ७ ॥

आनन्दवर्धनस्य ।
 

907
 

क्षुत्क्षामोपि जरान्वितोपि शिथिलप्राणोपि कष्टां दशा-

मापन्नोपि त्रिविपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ।

मत्तेभेन्द्रविभिन्नकुम्भपिशितमा ग्रासैकबद्धस्पृहः

किं जीर्णं तृणमत्ति मानमहताममेग्रेसर: केसरी ॥ ८ ॥
 

भर्तृहरे: ।
 

908
 

येना नर्गलफालकेलिदलितप्रत्यग्रकादम्बिनी-

धाराधोरणिधौतधातुषु पुरा शैलेषु लीलायितम् ।
 

सोयं शृङ्गनिपातभग्नचरणः स्फारस्फुरत्फेरवी-

फेत्कारैः
 
T
 
:
कुपितोद्य खादति मुहुः पाणी मृगग्रामणीः ॥ ९ ॥
भै

भे
रीमांभांकारस्य ।
 

909
 

अनिशं मतङ्गजानां बृंहितमाकर्ण्यते यथा विपिने ।

मन्ये तथा न जीवति गजेन्द्रपलकवलनः सिंहः ॥ १० ॥

शार्ङ्गधरस्य ।
 

910
 

जीर्णोपि क्रमहीनोपि कृशोपि यदि केसरी ।
 

तथापि यूथनाथस्य शङ्कातङ्काय कल्पते ॥ ११ ॥
 

पुष्पाकरस्य ।
 

911
 

खनन्नाखुबिलं सिंह: पाषाणशकलाकुलम् ।

प्रामोप्नोति नखभङ्गं वा फलं वा मूषको भवेत् ॥ १२ ॥
 

912
 

अस्मिन्नम्भोद वृन्दध्वनिजनितरुषि प्रेक्षमाणेन्तरिक्षं

मा काक व्याकुलोभूस्त रुशिखर शवक्रव्यलेशानशान ।

धत्ते मत्तेभकुम्भव्यतिकर करजग्रामवज्राग्रजाग्र-
ह्

द्ग्
रासव्यासक्तमुक्ताधवलितकवलो न स्पृहामंत्र सिंहः ॥१३।

महीपतिमण्डलीकस्य ।