This page has been fully proofread once and needs a second look.

द्योतान्योक्तयः
 

894
 

भौ श्वेतौ पक्षौ चरति गगनेवारितगतिः

सदा मीनं भुङ्क्ते वसति सकल: स्थाणु शिरसि ।

बके चान्द्रः सर्वो गुणसमुदय: किंचिदधिको

गुणा: स्थाने मान्या नरवर न तु स्थानरहिताः ॥ ६ ॥
 

895
 

रे रे शिष्ट बकोट नाकतटिनीतीरे तपस्विन्त्व्रतं

ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम् ।

एवं यत्किल मानसस्य पदवीं काङ्क्षस्ययुक्तं हि त-

न्
नीरक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा ॥ ७ ॥

केषामध्प्येते ।
 

अथ खद्योतान्योक्तयः ॥ ५२ ॥
 

896
 

जर्जरतुतृणाश्ग्रमदहन्सर्षपकणमप्रकाशयन्नूनम् ।

कीटत्वमात्मतन्त्रात्वात्खद्योतः ख्यापयन्नवति ॥ १ ॥
 

जयवर्धनस्य ।
 

897
 

इन्दुः प्रयास्यति विनंक्ष्यति तारक श्री:

स्थास्यन्ति लीतिसिंगढतिमिरा न भणिप्रदीपा: ।

अन्धं समग्रमपि कीटमणे भविष्य-

त्यन्भेयुन्मेष मेष्यति भवानपि दूरमेतत् ॥ २ ॥
 
१४१
 

कस्यापि ।
 

898
 

अदृष्टिव्यापारं गतवति दिनानामधिपती
तौ
यशः शेषीभूते शशिनि गतधाम्नि ग्रहगणे ।
 

तथान्धं संजातं जगदुपनते मेघसमये

यथामी गण्यन्ते तमसि पटव: कीटमणयः ॥ ३ ॥

आनन्दवर्धनस्य ।