This page has been fully proofread once and needs a second look.

शार्ङ्गधर पद्धतिः
 

 
तत्तादृग्वनवाससंमद महामोदेदै मेदस्विनी

वृत्तिर्मे गलितानया हतगिरेत्येवं शुकः शोचते ॥ ४ ॥
 

श्रीराघवचैतन्यानाम् ।
 

878
 

इदमपटु कपाटं जर्जरः पञ्जरोयं

विरमति न गृहेस्मिन्क्रूर माजीर्जारयात्रा ।

शुक सुमुकुलितजिह्वं स्थीयतां किं वचोभि
-
स्तव वचनविनोदे नादर: पामराणाम् ॥ ५ ॥
 

कृष्णमिश्रस्य ।
 

879
 

सुमुष्मिन्नुद्याने विहगखल ए प्रतिकलं

विलोल: काकोल: क्वणति किल
 
यावत्पटुतरम् ।
 

सखे तावत्कीर द्रढय हृदय हर्दि वाचंयमकलां
 

न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥ ६ ॥
 

कस्यापि ।
 

------------
अथ काकान्योक्तयः ॥ ५० ॥
 

880
 

गात्रं ते मलिनं तथा श्रवणयोरुद्वेगकृत्क्रेङ्गकृ
तं
क्ष्यं सर्वमपि स्वभावचपलं दुश्रेचेष्टितं ते सदा ।

एतैर्वायस संगतोस्यविनयैदेविर्दोषैकमूलैः परं

यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव धन्यो भवान् ॥१॥
 

शार्ङ्गधरस्य ।
 

881
 

पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां

दधिभृतघटीं गर्वोन्नद्धः समुन्नतकंधरः ।

निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो

यदि न कुरुते काणः काकः कदा नु करिष्यति ॥ २ ॥
 

भल्
लटस्य ।