This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

 
केकी कूजति चेत्तदा विघटितव्यालावलीन्धनः

सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः ॥ १ ॥
 

कस्यापि ।
 

868
 

केका कर्णामृतं ते सकुसुमकबरीकान्तिहारी कलापः

कण्ठच्छाया पुरारेगेर्गलरुचिरुचिरा सौहृदं मेघसंधैः ।
घैः ।
विश्वद्वेपिषिद्विजिह्वस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः
 

कैः पुण्यैः प्राप्तमेतत्सकलमपि सखे चित्रवृत्तं मयूर ॥२॥
 
:
 

शार्ङ्गधरस्य ।
 

869
 

वेगञ्चज्वटिद्विटपपुञ्जमहारवोयं
 
गार्ज

गर्जिर्
न तीव्रतरहेतिरियं न शम्पा ।
 

दावाग्निधूमनिवहोयमयं न मेघः
 

किं नृत्यसि द्रुतमितो व्रज तत्कलापिन् ॥३॥

लक्ष्मीधरस्य ।
 

870
 

अये नीलग्रीव क्व कथय सखे तेद्य मुनयः

परं तोषं येषां तव रवविलासो वितनुते ।

अमी दूरात्क्रूरा: क्वणितमिदमाकर्ण्य सहसा

त्वरन्ते हन्तुं त्वामहह शरा: पुङ्क्तिखितशराः ॥ ४ ॥
 

कस्यापि
 

871
 

हारीता: सरसं रसन्तु मधुरं कूजन्तु पुंस्कोकिला:

सानन्दं गिरमुद्गिरन्तु च शुकाः किं तैः शिरस्थैरपि ।

एकेनापि तलस्थितेन नदता श्रीखण्ड निस्तर्जना-

द्व्
यालानां च शिखण्डिनां ननु महत्पाण्डित्यमुद्दण्डितम् ॥ ५॥

श्रीचन्द्रदेवानाम् ।
 

872
 

किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता
 

नित्र्र्व्यापारतया च पक्षिषु गताः किं वा न पक्षा वृथा ।