This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
केकी कूजति चेत्तदा विघटितव्यालावलीवन्धनः
सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः ॥ १ ॥
 
कस्यापि ।
 
868
 
केका कर्णामृतं ते सकुसुमकबरीकान्तिहारी कलापः
कण्ठच्छाया पुरारेगेलरुचिरुचिरा सौहदं मेघसंधैः ।
विश्वद्वेपिद्विजिहस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः
 
कैः पुण्यैः प्राप्तमेतत्सकलमपि सखे चित्रवृत्तं मयूर ॥२॥
 
:
 
शार्ङ्गधरस्य ।
 
869
 
वेगञ्चलटिपपुञ्जमहारवोयं
 
गार्जन तीव्रतरहेतिरियं न शम्पा ।
 
दावाग्निधूमनिवहोयमयं न मेघः
 
किं नृत्यसि द्रुतमितो व्रज तत्कलापिन् ॥३॥
लक्ष्मीधरस्य ।
 
870
 
अये नीलग्रीव क कथय सखे तेद्य मुनयः
परं तोषं येषां तव रवविलासो वितनुते ।
अमी दूरात्क्रूरा: कणितमिदमाकर्ण्य सहसा
त्वरन्ते हन्तुं त्वामहह शवरा: पुङ्क्तिशराः ॥ ४ ॥
 
कस्यापि
 
871
 
हारीता: सरसं रसन्तु मधुरं कूजन्तु पुंस्कोकिला:
सानन्दं गिरमुद्गिरन्तु च शुकाः किं तैः शिरस्थैरपि ।
एकेनापि तलस्थितेन नदता श्रीखण्ड निस्तर्जना-
यालानां च शिखण्डिनां ननु महत्पाण्डित्यमुद्दण्डितम् ॥ ५॥
श्रीचन्द्रदेवानाम् ।
 
872
 
किंदूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता
 
नित्र्यापारतया च पक्षिषु गताः किं वा न पक्षा वृथा ।