This page has been fully proofread once and needs a second look.

मयूरान्योक्तयः
 

862
 

अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये

भ्रातश्चातक किं वृथात्र रटितैः खिन्नोसि विश्राम्यताम् ।

मेघ: शारद एष काशधवलः पानीयरिक्तोदरो

गर्जत्येव हि केवलं भृशतरं नो बिन्दुमप्युज्झति ॥ ११ ॥
 

863
 

समागमिष्यतोम्भोद वेत्ति कः समयं तव ।

रौति तोनो यदि सारङ्गस्तवोच्चैः खे पुरःसरः ॥ १२ ॥
 

चन्द्रस्य ।
 

864
 

यः कृष्णं कुरुते मुखं जनयति त्रासं तडिद्भिस्तु यो

यश्च प्रार्थयते परं दलयति श्रोत्राणि यो गर्जितैः ।

सत्यं चातक तं तथाविधमपि भ्रातस्त्वया याचता

जीमूतं कृतमेव तुल्यमनयोरर्थित्वतिर्यक्त्वयोः ॥ १३ ॥
 

865
 

धिग्वारिदं परिहृतान्यजलाशयस्य
 

यच्
चातकस्य कुरुते न तृपःष: प्रशान्तिम् ।

धिक्चातकं तमपि योर्थितयास्तलज्ज-

स्तं तादृशं च यदुपैति पिपासितोपि ॥१४॥
 

866
 

विश्वोपजीव्येपि पिबत्यपो न

पद्माकरे यद्यपि चातकोयम् ।

स्वार्थक्षतिस्तस्य तृषातुरस्य

लघुत्वमत्रास्ति न किंचिदस्य ॥१५॥
 

केषामध्प्येते !
 

---------
अथ मयूरान्योक्तयः ॥४८॥
 

867
 

एतस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः

काकोलूकक पोतकोकिल कुलैरे कोपि पार्श्वस्थितः ।
 
१३५