This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

856
 

बीजैरङ्कुरितं जटाभिरुदितं वल्लीभिरुज्जृम्मत
भित
कन्दैः कन्दलितं जनैः समुदितं धाराधरे वर्षति ।

भ्रातश्चातक पातकं किमपि ते सम्यङ्ग जानी महे

येनास्मिन्न पतन्ति तावकमुखे द्वित्राः पयोविबिन्दवः ॥५॥
 

857
 

चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्धचा
 
ध्या
इह हि पतिष्यति भवतो नयनयुगादेव वारि परम् ॥ ६ ॥
 

858
 

रक्ताञ्ब्जपुञ्जरजसारुणितान्त्रिविमुच्य

स्वच्छावान्सुधासमरसानपि वारिराशीन् ।

यच्चातकः पिति वारिधरोदविबिन्दू-

न्मन्ये तदानतिभयाच्छिरसोभिमानी ॥ ७ ॥
 

859
 

कृपे पानमधोमुखस्य हि भवेद्वाप्यो वराक्यः स्त्रियः

सामान्यं कटिट्टिमैः सह सरस्येवं समालोकयन् । ।

नादत्ते तृषितोपि सिन्धुसलिलं क्रूरैर्वृतं जन्तुभि
-
र्मा
नादुद्धतकंधरः सुरपतिं तच्चातको याचते ॥ ८ ॥
 

860
 

गर्जितबाधेबधिरीकृतककुभा
 

किमपि कृतं न घनेन ।
 

कियती चातकचञ्चुपुटी

सापि भृता न जलेन ॥ ९ ॥
 

861
 

अन्येपि सन्ति बत तामरसावतंसा
 

हंसावलीवलयिनो जलसंनिवेशाः ।
 

कोप्याग्रहो गुरुरयं हतचातकस्य
 

पौरंदरीं यदभिवाञ्छविरति वारिधराम् ॥ १० ॥