This page has been fully proofread once and needs a second look.

चातकान्यक्तियः
 

 
850
 

दात्यूहा: सरसं रसन्तु सुभगं गायन्तु के काभूभृतः

कादम्बा: कलमालपन्तु मधुरं कूजन्तु कोयष्टयः ।

दैवाद्यावदसौ रसालविटपिच्छाया मनासादय-

न्
निर्विण्ण: कुटजेषु कोकिलयुवा संजातमौनव्रतः ॥१३॥
 

851
 

भ्रातः कोकिल कूजितेन किमलं नाद्याप्यनर्थ्घ्यो गुण-

स्तूष्णीं तिष्ठ विशीर्णपर्णपटलच्छन्नः क्वचित्कोटरे ।

प्रोद्दामद्रुमसंकटे कटुरटत्काका वलीसंकुलः

कालोयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः ॥१४॥
 

केषामध्प्येतो ।
 
तौ ।
-------------
अथ चातकान्योक्तयः ॥४७॥
 

852
 

एक एव खगो मानी चिरं जीवतु चातकः ।

पिपासितो वा म्रियते याचते वा पुरंदरम् ॥१॥
 

कस्यापि ।
 

853
 

दीनोन्नतचलपक्षतया
 

बह्वपि लब्धमत्रस्तु ।

चातक यत्संभावनया
 

किमपि यदस्ति तदस्तु ॥२॥
 

854
 

चातकस्य खलु चञ्चुसंपुढे
 
टे
नो पतन्ति यदि वारिविबिन्दवः ।

सागरीकृतमहीतलस्य किं
 

दोष एष जलदस्य दीयते ॥३॥
 

855
 
१३३
 

सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते ।

अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ ४ ॥