Proofing

✦

This page has been fully proofread once and needs a second look.

१३२
 
शार्ङ्गधरपद्धतिः
 

आ: कालस्य वशेन कोकिलयुवा सोप्यद्य सर्ववा दिशः

खेलद्वायसचन्ञ्चुधाघातविदलन्मूर्धा मुहुर्धावति ॥७॥
 

भेरीमांकारस्य ।
 

845
 

क्वचिज्झिल्लीनादः कक्वचिदतुलकाकोलकलहः
क

क्व
चित्कङ्कारावः कक्वचिदपि कपीनां कलकलः ।
क

क्व
चिवोद्घोरः फेरुध्वनिरयमहो दैवघटना

कथंकारं तारं रसति चकित: कोकिलयुवा ॥८॥
 

कस्यापि ।
 

846
 

यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि

व्यप्ग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे ।

रे रे काक बवराक साकममुना पुंस्कोकिलेनाधुना

स्पर्धावन्धमुपेयुपषस्तव नु किं लज्जापि नो जायते ॥९॥
 

भल्लटस्य ।
 

847
 

रे बालकोकिल करीरमरुस्थलीषु

किं दुर्विदग्ध मधुरध्वनिमातनोषि ।

अन्यः स कोपि सहकारतरुप्रदेशो

राजन्ति यत्र तव विभ्रमभाषितानि ॥ १० ॥

कस्यापि
 
।
848
 

रसालशिखरासीनाः सन्तु सन्तु पतत्रिणः ।

तन्मञ्जरीरसामोदविन्दुरेकः कुहूमुखः ॥११॥
 

849
 

रे कीर कैतवसुगीरिति संकलय्य

मा मात्र संरससि सज्जनरञ्जनाय ।

बालोपि यत्र कलकण्ठ सुकण्ठपीठ-

संलोटिठिको मलकूहहुरुतपूर्णकर्णः ॥ १२॥
 

एतौ श्री चन्द्रदेवस्य ।