This page has been fully proofread once and needs a second look.


अथ
कोकिलान्योक्तयः
 
अथ कोकिलान्योक्तयः
॥ ४६ ॥
 

838
 

काकैः सह विवृद्धस्य कोकिलस्य कला गिरः ।

बलसङ्गेपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ १॥
 

839
 

समुद्भिगिरसि वाचः किं पुंस्कोकिल सुकोमलाः ।

श्वभ्रेस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥ २ ॥
 

840
 

अस्यां सखे बधिरलोकनिवासभूमौ

किं कूजितेन खलु कोकिल कोमलेन ।

एते हि दैवहतकास्तदभिन्नवर्
 
णं
त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ ३ ॥

केषामध्प्येते ।
 

841
 

कोकिल कलप्रलापैरलमलमालोकसे रसालं किम् ।

शरनिकरभरितशरधि: शबर: सरतीह परिसरे सधनुः ॥ ४ ॥
 

श्रीदेवानाम् ।
 

842
 

तवैतद्वाचि माधुर्यं जाने कोकिल कृत्रिमम् ।
 

यैः पोषितोसि तानेव जातपक्षो जहासि यत् ॥ ५ ॥

श्रीभोजदेवस्य ।
 

843
 

मूकीभूय तमेव कोकिल मधुधुं बन्धुधुं प्रतीक्षस्व हे

हेलोल्लासितमल्लिकापरिमलामोदानुकूलानिलम् ।

यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लस-

त्पांसूत्तम्भभूभृतो निदाघादेघदिवसा: संतापसंदायिनः ॥ ६ ॥
 

कस्यापि ।
 

844
 
१३१
 

येनानन्दमये वसन्तसमये सौरभ्यहेलामिल-

द्भृ
ङ्गालीमुखरे रसालशिखरे नीताः पुरा वासराः ।