This page has not been fully proofread.

कोकिलान्योक्तयः
 
अथ कोकिलान्योक्तयः ॥ ४६ ॥
 
838
 
काकैः सह विवृद्धस्य कोकिलस्य कला गिरः ।
बलसङ्गेपि नैष्ठुर्य कल्याणप्रकृतेः कुतः ॥ १॥
 
839
 
समुद्भिरसि वाचः किं पुंस्कोकिल सुकोमलाः ।
श्वभ्रेस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥ २ ॥
 
840
 
अस्यां सखे बधिरलोकनिवासभूमौ
किं कूजितेन खलु कोकिल कोमलेन ।
एते हि दैवहतकास्तदभिन्नवर्ण
 
त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ ३ ॥
केषामध्येते ।
 
841
 
कोकिल कलप्रलापैरलमलमालोकसे रसालं किम् ।
शरनिकरभरितशरधि: शबर: सरतीह परिसरे सधनुः ॥ ४ ॥
 
श्री वनवदेवानाम् ।
 
842
 
तवैतद्वाचि माधुर्य जाने कोकिल कृत्रिमम् ।
 
यैः पोषितोसि तानेव जातपक्षो जहासि यत् ॥ ५ ॥
श्रीभोजदेवस्य ।
 
843
 
मूकीभूय तमेव कोकिल मधु बन्धु प्रतीक्षस्व हे
हेलोल्लासितमल्लिकापरिमलामोदानुकूलानिलम् ।
यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तल्लस-
त्पांसूत्तम्भभूतो निदाघादेवसा: संतापसंदायिनः ॥ ६ ॥
 
कस्यापि ।
 
844
 
१३१
 
येनानन्दमये वसन्तसमये सौरभ्यहेलामिल-
इङ्गालीमुखरे रसालशिखरे नीताः पुरा वासराः ।