This page has been fully proofread once and needs a second look.

१३०
 
शार्ङ्गधरपद्धतिः
 

882
 

दग्धा सा बकुलावली कवलितास्ते ते रसालद्रुमाः
प्रु

प्लु
ष्टास्तेपि विनिद्रपुष्पपटलीपीतातपाः पादपाः ।

भ्रातर्भुभृङ्ग दवामिग्निना वनमिदं वल्मीकशेषं कृतं
 

किं संप्रत्यपि काननान्तर परिस्पन्दाय न्दायसे ॥ १८ ॥
 

833
 

दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो

नो जिघ्रत्यपि पाटलापरिमलं धत्ते न चूते रतिम् ।

मन्दारेपि न सादरो विचकिलोपान्तेपि संतप्यते

तन्मन्ये क्वचिदङ्ग भृङ्गतरुणेनास्वादिता मालती ॥ १९ ॥
 

834
 

ये वर्धिताः करिकपोलमदेन भृङ्गाः

प्रोत्फुल्लपङ्कजरजः सुरभीकृताङ्गाः ।

ते सांप्रतं प्रतिदिनं गमयन्ति कालं
 

निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ २० ॥
 

835
 

कृत्वापि कोशपानं भ्रमरयुवा पुरत एवं कमलिन्याः ।

अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥२१॥
 

83
 
6
इह सरसि सहर्षं मञ्जुगुञ्जाभिरामं
 

मधुकर कुरु केलिं सार्धमम्भोजिनीभिः ।

अनुपममकरन्दामोददत्तप्रमोदा
 

त्यजाते बत न निद्रां मालती यावदेषा ॥ २२ ॥
 

837
 

येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया

नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।

भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां

सोयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः ॥ २३ ॥
 

केष. म षामप्येते