This page has not been fully proofread.

१३०
 
शार्ङ्गधरपद्धतिः
 
882
 
दग्धा सा बकुलावली कवलितास्ते ते रसालद्रुमाः
प्रुष्टास्तेपि विनिद्रपुष्पपटलीपीतातपाः पादपाः ।
भ्रातर्भुङ्ग दवामिना वनमिदं वल्मीकशेषं कृतं
 
किं संप्रत्यपि काननान्तर परिस्पन्दाय भन्दायसे ॥ १८ ॥
 
833
 
दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो
नो जिघ्रत्यपि पाटलापरिमलं धत्ते न चूते रतिम् ।
मन्दारेपि न सादरो विचकिलोपान्तेपि संतप्यते
तन्मन्ये क्वचिदङ्ग भृङ्गतरुणेनास्वादिता मालती ॥ १९ ॥
 
834
 
ये वर्धिताः करिकपोलमदेन भृङ्गाः
प्रोत्फुल्लपङ्कजरजः सुरभीकृताङ्गाः ।
ते सांप्रतं प्रतिदिनं गमयन्ति कालं
 
निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ २० ॥
 
835
 
कृत्वापि कोशपानं भ्रमरयुवा पुरत एवं कमलिन्याः ।
अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥२१॥
 
83
 
इह सरसि सहर्ष मञ्जुगुञ्जाभिरामं
 
मधुकर कुरु केलिं सार्धमम्भोजिनीभिः ।
अनुपममकरन्दामोददत्तप्रमोदा
 
त्यजाते बत न निद्रां मालती यावदेषा ॥ २२ ॥
 
837
 
येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
सोयं भृङ्गयुवा करीरविटपे बनाति तुष्टिं कुतः ॥ २३ ॥
 
केष. म येते