This page has been fully proofread once and needs a second look.

मधुकरान्योक्तयः
 

826
 

स्वामोदवासितसमग्रदिगन्तराला

रक्ता मनोहगशरशिखा सुकुमार मूर्तिः ।

सेव्या सरोजकलिका तु यदैव जाता

नीतस्तदैव विधिना मधुपोन्यदेशम् ॥ १२ ॥
 

827
 

किं क्वापि प्रलयानलैर्विटपिनो निर्दह्य भस्मीकृताः

किं वा दैवगजेन पङ्कजवनं निष्कन्दमुन्मूलितम् ।

किं वा हन्त कृतान्तकेसरिभयाच्त्त्यक्तो मदः कुञ्जरै-

र्ये नास्मिन्विर से करीरकुसुमे हा भृङ्ग विश्राम्यसि ॥ १३ ॥
 
१२९
 

828
 

अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोपि ।

गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥ १४ ॥
 

829
 

मधुकरगणश्चूतं त्यक्त्वा गतो नवमल्लिकां

पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।

तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं

परिचितजनद्वेषी लोको नवं नवमीहते ॥ १५ ॥
 

830
 

यस्याः संगमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला

यामालिङ्गचग्य समुत्सुकेन मनसा यातः परां निर्वृतिम् ।

ग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते

धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ १६ ॥
 

831.
 

अपसर मधुकर दूरं परिमलबहुलेपि केतकी कुलुसुमे ।

इह नहि मधुलवलेशो भवति परं धूलिधूसरं वदनम् ॥ १७ ॥