This page has been fully proofread once and needs a second look.

१२८
 
शार्ङ्गधरपद्धतिः
 

820
 

नो मल्लीमयमीहते न भजते मत्तेभकुम्भस्थलीं

वासन्तीं सहते न चन्दनवनीमालम्ते न क्वचित् ।
 

जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरां

ध्यायन्निर्वृतिमेति षट्पदयुवा योगीव वीतभ्रमः ॥६ ॥
 

श्रीपुष्पाकरदेवानाम् ।
 

821
 

किं मालति म्लायसि यद्यविद्य-

श्
चुचुम्ब तुम्बीकुसुमं डङ्गिः ।
घ्रि: ।
प्राणी चतुर्भिश्चरणैः पशुश्चे -

त्स परि षड्भिरध्यर्धपशुः कथं न ॥ ७ ॥
 

कस्यापि ।
 

822
 

केतकी कुसुमं भृङ्गः खण्ड्यमानोपि सेवते ।
 

दोषा: किं नाम कुर्वन्ति गुणापहृतचेतसः ॥ ८ ।॥
 

कस्यापि ।
 

823
 

अन्यासु तावदुपमर्दसहासु भृङ्ग
 

लोलं विनोदय मनः सुमनोलतासु ।
 

मुग्धामजातरजसं कलिकामकाले
 

व्यर्थं कदर्थयसि किं नवमालिकायाः ॥ ९ ॥
 

विकटनितम्बायाः ।
 

824
 

मदनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम् ।
 

वनमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥ १० ॥
 

825
 

फुल्लेषु यः कमलिनीकमलोदरेषु
 

चूतेषु यो विलसितः कलिकान्तरस्थः ।

पश्याद्य तस्य मधुपस्य शरद्व्यपाये
 

कृच्छेछ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ ११॥