This page has not been fully proofread.

१२८
 
शार्ङ्गधरपद्धतिः
 
820
 
नो मल्लीमयमीहते न भजते मत्तेभकुम्भस्थलीं
वासन्तीं सहते न चन्दनवनीमालम्वते न क्वचित् ।
 
जातीमेव हदीश्वरीमिव महानन्दैककन्दाङ्कुरां
ध्यायन्निर्वृतिमेति षट्पदयुवा योगीव वीतभ्रमः ॥६ ॥
 
श्रीपुष्पाकरदेवानाम् ।
 
821
 
किं मालति म्लायसि यद्यविद्य-
चुचुम्ब तुम्बीकुसुमं पडङ्गिः ।
प्राणी चतुर्भिश्चरणैः पशुचे-
त्स परिध्यर्धपशुः कथं न ॥ ७ ॥
 
कस्यापि ।
 
822
 
केतकी कुसुमं भृङ्गः खण्ड्यमानोपि सेवते ।
 
दोषा: किं नाम कुर्वन्ति गुणापहृतचेतसः ॥ ८ ।॥
 
कस्यापि ।
 
823
 
अन्यासु तावदुपमर्दसहासु भृङ्ग
 
लोलं विनोदय मनः सुमनोलतासु ।
 
मुग्धामजातरजसं कलिकामकाले
 
व्यर्थ कदर्थयसि किं नवमालिकायाः ॥ ९ ॥
 
विकटनितम्बायाः ।
 
824
 
मदनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम् ।
 
वनमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥ १० ॥
 
825
 
फुलेषु यः कमलिनीकमलोदरेषु
 
चूतेषु यो विलसितः कलिकान्तरस्थः ।
पश्याच तस्य मधुपस्य शरव्यपाये
 
कृच्छेण वेणुविवरे दिवसाः प्रयान्ति ॥ ११॥