This page has not been fully proofread.

मधुकरान्योक्तयः
 
भ्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिति
त्वां भो मानस संस्मरन्पुनरसौ हंसः समभ्यागतः ॥१९॥
 
केषामप्येते ।
 
अथ मधुकरान्योक्तयः ॥ ४५ ॥
 
815
 
मधुकर तव करनिकरैः किं किं क्रान्तं कुलं न कुसुमानाम् ।
तहद सरसिजमुकुले लब्धं किंचिद्यदन्यतस्तत्किम् ॥१॥
 
816
 
गौरी चम्पककलिकामपहाय भ्रान्त दुर्बुद्धे ।
शाल्मलिकुसुमद्लेषु स्वैरं गुञ्जन्न लज्जसे मधुप ॥ २ ॥
॥२॥
शार्ङ्गधरस्य ।
 
817
 
भ्रमन्वनान्ते नवमञ्जरीषु
न षट्टदो गन्धफलीमजिप्रत् ।
सा किं न रम्या स च किं रन्ता
बलीयसी केवलमीश्वरेच्छा ॥ ३ ॥
 
लक्ष्म्याः ।
 
818
 
भ्रमर भ्रमता दिगन्तराणि
 
क्वचिदासादितमीक्षितं श्रुतं वा ।
 
वद सत्यमपास्य पक्षपातं
 
यदि जातीकुसुमानुकारि पुष्पम् ॥ ४ ॥
 
१२७
 
819
 
अभिनवनलिनीविनोदलुब्धो
 
श्रीगणदेवानाम् ।
 
· मुकुलित कैरविणीवियोगभीरुः ।
 
भ्रमति मधुकरोयमन्तराले
श्रयति न पङ्कजिनीं कुमुद्रतीं वा ॥ ५ ॥
 
श्रीधनददेवानाम् ।