This page has been fully proofread once and needs a second look.

१२६
 
शार्ङ्गधरपद्धतिः
 

इत्थं कूपोदरस्थ: शपति तटगतं दर्दुरो राजहं
 
सं
नीचः प्रायः शटाठार्थो भवति हि विषमो नापराधेन हृष्टः ॥१३॥
 

केषामप्येते ।
 

809
 

यः संतापमपाकरोति जगतां यत्रोश्चोपकारक्षमः

सर्वेषाममृतात्मकेन वपुषा प्रीणाति नेत्राणि यः ।

तस्याप्युन्नतिमम्बुदस्य सहसे यन्न त्वमेतावता

वर्णेनैव परं मराल धवलः कृष्णश्चरित्रैरसि ॥ १४ ॥
 

श्रीभोजदेवस्य ।
 

810
 

गतं तद्गाम्भीर्यं तटमपि चितं जालकशतैः

सखे हंसोत्तिष्ठ त्वरितममुतो गच्छ सरसः ।

न यावत्पङ्काक्तः कलुषिततनुर्भुरिविलस-

न्वकोटो वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥१५॥
 

811
 

यदि नाम दैवगत्या जगदसरोजं कदापि संजातम् ।

अवकरनिकरं त्रिविकिरति तत्किकिं कृकवाकुरिव हंसः ॥१६॥
 

812
 

अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम् ।

रमते न मरालस्य मानसं मानसं विना ॥१७॥
 

813
 

आकार: कमनीयताकुलगृहं लीलालसा सा गतिः

संपर्क : कमलालयैः कलतया लोकोत्तरं कूजितम् ।

यस्येयं गुणसंपदस्ति महती तस्यातिभव्यस्य ते

संरब्धत्वमसद्गु मद्दुगुकलहे नाहं सहे हंस हे ॥१८॥
 

814
 

नद्यो नीचरता दुरापपयस: कूपाः पयोराशयः

क्षारा दुष्टबकोटसंकटतटोद्देशास्तडागादयः ।