This page has been fully proofread once and needs a second look.

हंसान्योक्तयः

803
 
तरी

तरौ
तीरोद्भूते क्वचिदपि दलाच्छादिततनुः

पतद्धारासारां गमय विषमां प्रावृषमिमाम् ।

निवृत्तायां तस्यां सरसि सरसोत्फुल्लनलिने
 

स एव त्वं हंसः पुनरपि विलासास्त इह ते ॥ ८ ॥
 

804
 

रे राजहंस किमिति त्वमिहागतोसि

योसौ बकः स इह हंस इति प्रतीतः ।

तद्गम्यतामनुपदेन पुनः स्वभूमौ
यावद्द

यावद्व
दन्ति न बकं खलु मूढलोकाः ॥ ९ ॥
 

805
 

यो दिव्याम्बुजलीनमत्तमधुपप्रोद्गीतिरम्यं सर-
स्त्यका

स्त्यक्त्वा
मानसमल्पवारिणि रतिं बध्नाति कैदारिके ।

तस्यालीकसुखाशया परिभवक्रोडीकृतस्याधुना

हंसस्योपरि टिट्टिो यादेटिभो यदि पदं धत्तेत्र को विस्मयः ॥ १० ॥
 

806
 
१२५
 

अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका-

विन्यस्तान्बलितण्डुलान्कवलयन्दृष्टोसिंसि हृष्टैर्मुखैः ।

एषा पक्कणवापिका कमलिनीखण्डेन गुप्तात्मभि-

र्व्याघैस्त्वद्विधमुग्धबन्धनविधौ को नाम नो सूत्र्यते ॥११॥
 

807
 

भो हंसास्तावदम्भोरुहकुहररजोरञ्जिताङ्गाः सहेलं

हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रमध्वम् ।

यावन्नायं दुरन्तो हरगलगरलव्यालजालालिनील-

प्रोन्मीलन्मेघमालामलिनसकलदिङ्गण्डलोभ्येति कालः ॥ १२॥
 

808
 

हे पक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियोयद्भो विशालं

किं मद्धालोम्नोपि वाढबाढं तदतिशठ महापाप मा ब्रूहि मिथ्या ।