This page has not been fully proofread.

हंसान्योक्तयः
803
 
तरी तीरोद्भूते क्वचिदपि दलाच्छादिततनुः
पतद्धारासारां गमय विषमां प्रावृषमिमाम् ।
निवृत्तायां तस्यां सरसि सरसोत्फुल्लनलिने
 
स एव त्वं हंसः पुनरपि विलासास्त इह ते ॥ ८ ॥
 
804
 
रे राजहंस किमिति त्वमिहागतोसि
योसौ बकः स इह हंस इति प्रतीतः ।
तद्गम्यतामनुपदेन पुनः स्वभूमौ
यावद्ददन्ति न बकं खलु मूढलोकाः ॥ ९ ॥
 
805
 
यो दिव्याम्बुजलीनमत्तमधुपप्रोद्गीतिरम्यं सर-
स्त्यका मानसमल्पवारिणि रतिं बध्नाति कैदारिके ।
तस्यालीकसुखाशया परिभवक्रोडीकृतस्याधुना
हंसस्योपरि टिट्टिो यादे पदं धत्तेत्र को विस्मयः ॥ १० ॥
 
806
 
१२५
 
अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका-
विन्यस्तान्बलितण्डुलान्कवलयन्दृष्टोसिं हृष्टैर्मुखैः ।
एषा पक्कणवापिका कमलिनीखण्डेन गुप्तात्मभि-
र्व्याघैस्त्वद्विधमुग्धबन्धनविधौ को नाम नो सूत्र्यते ॥११॥
 
807
 
भो हंसास्तावदम्भोरुहकुहररजोरञ्जिताङ्गाः सहेलं
हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रमध्वम् ।
यावन्नायं दुरन्तो हरगलगरलव्यालजालालिनील-
प्रोन्मीलन्मेघमालामलिनसकलदिङ्गण्डलोभ्येति कालः ॥ १२॥
 
808
 
हे पक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियो विशालं
किं मद्धालोपि वाढ तदतिशठ महापाप मा ब्रूहि मिथ्या ।