This page has been fully proofread once and needs a second look.

१२४
 
शार्ङ्गधरपद्धतिः
 

797
 

अम्भोजिनीवननिवासविलासमेव

हंसस्य हन्ति नितरां कुपितो विधाता ।

न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां

वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ २ ॥
 

भर्तृहरेः ।
 

798
 

अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य ।

कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ ३ ॥
 

799
 

भृङ्गाङ्गनाजनमनोहरहारिगीत-

राजीवरेणुकणकीर्णपिशङ्गतोयाम् ।

रम्यां हिमाचलनदीं प्रविहाय हंस
 

हे हे हताश वद कां दिशमुत्सुकोसि ॥ ४ ॥
 

800
 

स्थित्वा क्षणं विततपक्षतिरन्तरिक्षे
 

मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।

उत्पन्नमन्युपरिघर्रनि:स्वनेन
 
हँ

हं
सेन साश्रु परिवृत्य गतं न लीनम् ॥ ५ ॥
 

801
 

सरसि बहुशस्ताराछायां दशन्परिवञ्चितः

कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।

न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं

कुहकचकितो लोकः सत्येप्यपायमपेक्षते ॥ ६ ॥
 

802
 

वातान्दोलितपङ्कजच्युतरजः पुञ्जाङ्गरागोज्ज्वलो

यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा ।

कान्ता चञ्चुपुटापर्वार्जतविवर्जितबिसग्रासमद्देग्रहेप्यक्षमः

सोयं संप्रति हंसको मरुगतः काँपकौपं पयो याचते ॥ ७ ॥