This page has not been fully proofread.

१२४
 
शार्ङ्गधरपद्धतिः
 
797
 
अम्भोजिनीवननिवासविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ २ ॥
 
भर्तृहरेः ।
 
798
 
अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य ।
कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ ३ ॥
 
799
 
भृङ्गाङ्गनाजनमनोहरहारिगीत-
राजीवरेणुकणकीर्णपिशङ्गतोयाम् ।
रम्यां हिमाचलनदीं प्रविहाय हंस
 
हे हे हताश वद कां दिशमुत्सुकोसि ॥ ४ ॥
 
800
 
स्थित्वा क्षणं विततपक्षतिरन्तरिक्षे
 
मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।
उत्पन्नमन्युपरिघर्धरनि:स्वनेन
 
हँसेन सा परिवृत्य गतं न लीनम् ॥ ५ ॥
 
801
 
सरसि बहुशस्ताराछायां दशन्परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहकचकितो लोकः सत्येप्यपायमपेक्षते ॥ ६ ॥
 
802
 
वातान्दोलितपङ्कजच्युतरजः पुञ्जाङ्गरागोज्ज्वलो
यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा ।
कान्ता चञ्चुपुटापर्वार्जतविसग्रासमद्देप्यक्षमः
सोयं संप्रति हंसको मरुगतः काँप पयो याचते ॥ ७ ॥