This page has not been fully proofread.

हंसान्योक्तयः
 
791
 
अलिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।
मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥ २ ॥
भवभूतेः ।
 
792
 
ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि-
पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाचिरम् ।
उत्क्षिनाश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे
तुङ्गानामुपरिस्थितिं क्षितिभृतां कुर्वन्त्यमी पांसवः ॥ ३ ॥
 
भल्लदस्य ।
 
793
 
परमो मरुत्सखानेस्तेजोवृद्धिं तनोति तज्जंतु ।
दीपं हरति तदस्य ज्ञातं प्रतिपत्तिनिर्वहणम् ॥ ४ ॥
 
कस्यापि ।
 
794
 
कोयं भ्रान्तिप्रकारस्तव पवन पदं लोकपादाहतानां
तेजस्वित्रातसेव्ये नभसि नयसि यत्पांपूरं प्रतिष्ठाम् ।
अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
केनोपायेन सह्यो वपुषि कलुषतादोष एष त्वयैव ॥ ५ ॥
 
795
 
हो दग्धसमीर सर्पति भवत्यस्मिन्वने शाखिनां
शाखाघर्षणतः स कोपि सुचिरं जज्वाल दावानलः ।
येनादाहि पलायमानहरिणं भस्मीभवद्भूरुहं
शुष्यन्निर्झर मुत्पतत्खगकुलं वेलद्भुजंगं वनम्॥ ६ ॥
 
कयरप्येतौ ।
 
१२३
 
अथ हंसान्योक्तयः ॥ ४४ ॥
 
796
 
कंसारिचरणोद्भूतसिन्धुकल्लोललालितम् ।
 
मन्ये हंस मनो नीरे कुल्यानां रमते कथम् ॥ १ ॥
शार्ङ्गधरस्य ।