This page has been fully proofread once and needs a second look.

 
785
शोषं गते सरसि शैवलमञ्जरीणा-
मन्तस्तिमिर्लुठति तापविसंष्टुलाङ्गः ।
अत्रान्तरे यदि न वारिद वारिपूरै-
राप्लावयेस्तदनु किं मृतमण्डनेन ॥२१॥
786
कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय
स्फारैर्भीषय गर्जितैरतितरां कार्ष्ण्यं मुखे दर्शय ।
अस्यानन्यगतेः पयोद मनसो जिज्ञासया चातक-
स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ॥ २२॥
787
भूयो गर्जितमम्बुद प्रकटिता विद्युत्खमापूरितं
दूरावग्रहपृष्ठनिष्ठ तदलं वृष्ट्या तत्रातः परम् ।
निर्दग्धाखिलशालिहालिकवधूसंनद्धनेत्रैः परं
नैराश्यादिह वर्षितव्यमधुना केदारपूरं पयः ॥ २३ ॥
788
नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि जलदोषरादिषु क्वापि ।
तत्किं तत्र न मुञ्चसि मुक्ता मुक्ता भवन्ति यत्रापः ॥ २४ ॥
789
यदस्बुकणमादाय प्राप्नोसि जलदोन्नतिम् ।
तस्योपर्यम्बुधेर्गर्जा मलिनस्योचितैव ते ॥ २५ ॥
केषामप्येते ।
-------------
अथ वायोरन्योक्तयः ॥ ४३ ॥
790
वरतरुविघटनपटवः कटवश्चञ्चन्ति बायवो बहवः ।
तत्कुसुमबहलपरिमलगुणविन्यासे कृती त्वेकः ॥ १ ॥
भानुपण्डितस्य ।