शार्ङ्गधरपद्धतिः /137
This page has not been fully proofread.
१२२
शार्ङ्गधरपद्धतिः
785
शोषं गते सरसि शैवलमञ्जरीणा-
मन्तस्तिमिर्तुति तापविसंटुलाङ्गः ।
अत्रान्तरे यदि न वारिद वारिपूरै-
राष्ठावयेस्तदनु किं मृतमण्डनेन ॥२१॥
786
कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय
स्फारैभषय गर्जितैरतितरां कार्ण्य मुखे दर्शय ।
अस्यानन्यगतेः पयोद मनसो जिज्ञासया चातक-
स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ॥ २२॥
787
भूयो गर्जितमम्बुद प्रकटिता विद्युत्खमापूरितं
दूरावग्रहपृष्ठनिष्ठ तदलं वृष्टया तत्रातः परम् ।
निर्दग्धाखिल शालिहालिकवधूसंनद्धनेत्रैः परं
नैराश्यादिह वर्षितव्यमधुना केदारपूरं पयः ॥ २३ ॥
788
नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि जलदोषरादिषु कापि ।
तल्कि तत्र न मुञ्चसि मुक्ता मुक्ता भवन्ति यत्रापः ॥ २४ ॥
789
यदस्बुकणमादाय प्राप्तोसि जलदोन्नतिम् ।
तस्योपर्यम्बुधैर्गर्जा मलिनस्योचितैव ते ॥ २५ ॥
केषाभप्येते ।
अथ वायोरन्योक्तयः ॥ ४३ ॥
790
वरतरुविघटनपटवः कटवश्वञ्चन्ति बायवो बहवः ।
तत्कुसुमबहलपरिमलगुणविन्यासे कृती त्वेकः ॥ १ ॥
भानुपण्डितस्य ।