This page has not been fully proofread.

१२०
 
शार्ङ्गधरपद्धतिः
 
दुष्पूरोदरपूरणाय पिवति स्रोतःपतिं वाडवो
जीमूतस्तु निदाघतापितजगत्संतापविच्छित्तये ॥ ९ ॥
 
कस्यापि ।
 
774
 
अन्योपि चन्दनतरोर्महनीयमूर्तेः
से कार्यमुत्सहति तद्गुणबद्धतृष्णः ।
शाखोटकस्य पुनरस्य महाशयोय-
मम्भोद एव शरणं यदि निर्गुणस्य ॥ १० ॥
 
कस्यापि ।
 
-
 
775
 
अये हेलावेलातुलितकुलशैले जलनिधौ
कुतो वारामोघं बत जलद मोघं वितरसि ।
समन्तादुत्तालज्वलद् नलकीलाकवलन-
क्लमोपेतानेतानुपचर पयोभिर्विटपिनः ॥ ११ ॥
 
बिल्हणस्य ।
 
776
 
मार्गो भूरिमरुर्जलं स्थलभुवि स्वमेपि नो लभ्यते
तीव्रो वाति समीरणः कचिदपि च्छायाभूतो न द्रुमाः ।
अङ्गारप्रकरान्किरन्निव रविग्रष्मे तपत्यम्बरे
तद्भोः पान्थहिताय पूरय धरां पाथोद पाथीभरैः ॥ १२ ।
 
शार्ङ्गधरस्य ।
 
777
 
भेकैः कोटरशायिभिर्मृतमित्र क्ष्मान्तर्गतं कच्छपैः
पाटीनैः पृथुपङ्कपीउलुटनाद्यस्मिन्मुहुर्मूर्छितम् ।
तस्मिञ्छुष्क सरस्यकालजलदेनागत्य तच्चेष्टितं
यत्रा कण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ १३ ॥
 
:
 
अकाल जलदस्य ।
 
778
 
आश्वास्य पर्वतकुलं तपनोष्मतनं
 
दुर्दाववह्निविधुराणि च काननानि ।