This page has been fully proofread once and needs a second look.

मेघान्योक्तयः
 

 
767
 

क्षणदृष्टनष्टतडितो निजसंपत्तेः पयोदनिवहेन ।

ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि ॥ ३ ॥
 

कस्यापि ।
 

768
 

प्रावृषेण्यस्य मालिन्यं दोषः कोभीष्टवर्षिणः ।

शारदाभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ ४ ॥
 

769
 

जलधर जलभरनिकरैरपहर परितापमुद्धतं जगतः ।

नो चेदपसर दूरं हिमकरकरदर्शनं वितर ॥ ५ ॥
 

चन्द्रकवेः ।
 

770
 

चातक: स्वानुमानेन जलं प्रार्थयतेम्बुदात् ।
स स्त्रो

स स्वो
दारतया सर्वोवां प्लावयत्यम्बुना महीम् ॥ ६ ॥
 

कस्यापि ।
 

771
 

शालेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्तेषु च

श्रीखण्डेषु विमीभीतकेषु च तथा पूर्णेषु रिक्तेषु च ।

स्निग्धेन ध्वनिनाखिलेपि जगतीचक्रे समं वर्षतो

वन्दे वारिद सार्वभौम भवतो विश्वोपकारिव्रतम् ॥ ७ ॥
 

कस्यापि ।
 

772
 

नीहाराकरसारसागरसरित्कासारनीरश्रियं
 

त्यक्त्वा तोयद चातकेन महती सेवा समालम्बिता ।

तस्यैतत्कलितं समुज्झसि शिलासंताडनं मस्तके

गाढं गर्जसि वज्रमुज्झसि तडिल्लेिलेखाभिरातजैर्जसि ॥ ८ ॥
 

कस्यापि ।
 

773
 

क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापार मात्रोद्यताः

स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।