This page has not been fully proofread.

मेघान्योक्तयः
 
767
 
क्षणदृष्टनष्टतडितो निजसंपत्तेः पयोदनिवहेन ।
ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि ॥ ३ ॥
 
कस्यापि ।
 
768
 
प्रावृषेण्यस्य मालिन्यं दोषः कोभीष्टवर्षिणः ।
शारदाभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ ४ ॥
 
769
 
जलधर जलभरनिकरैरपहर परितापमुद्धतं जगतः ।
नो चेदपसर दूरं हिमकरकरदर्शनं वितर ॥ ५ ॥
 
चन्द्रकवेः ।
 
770
 
चातक: स्वानुमानेन जलं प्रार्थयतेम्बुदात् ।
स स्त्रोदारतया सर्वो प्लावयत्यम्बुना महीम् ॥ ६ ॥
 
कस्यापि ।
 
771
 
शालेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्तेषु च
श्रीखण्डेषु विमीतकेषु च तथा पूर्णेषु रिक्तेषु च ।
स्निग्धेन ध्वनिनाखिलेपि जगतीचक्रे समं वर्षतो
वन्दे वारिद सार्वभौम भवतो विश्वोपकारिव्रतम् ॥ ७ ॥
 
कस्यापि ।
 
772
 
नीहाराकरसारसागरसरित्कासारनीरश्रियं
 
त्यक्त्वा तोयद चातकेन महती सेवा समालम्बिता ।
तस्यैतत्कलितं समुज्झसि शिलासंताडनं मस्तके
गाढं गर्जसि वचमुज्झसि तल्लेिखाभिरातजैसि ॥ ८ ॥
 
कस्यापि ।
 
773
 
क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापार मात्रोद्यताः
स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।