This page has been fully proofread once and needs a second look.

११८
 
शार्ङ्ग वरपद्धतिः
 

 
सर्वावांशाप्रतिरोधकान्धतम सध्वंसाय बद्धोद्यमो

धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ १४ ॥
 

कस्यापि ।
 

762
 

निरर्थकं जन्म गतं नलिन्या

यथा न दृष्टं तुहिनांशुविबिम्वम् ।

उत्पत्तिरिन्दोरपि निष्फलैव
 

दृष्टा प्रहृष्टा नलिनी न येन ॥ १५ ॥
 

कस्यापि ।
 

763
 

विरम तिमिर साहसादमुप्मा-

द्
यदि रविरस्तमितः स्वतस्ततः किम् ।

कलयसि न पुरो महोमहोर्मि-

द्युतिनिधिरभ्युदयत्ययं शशाङ्कः ॥ १६ ॥
 

बल्लालसेनस्य ।
 

764
 

उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्मिरुद्यत्प्रभैः
 
:
 

शुक्राद्यैः किममीभित्र वितथां प्रोटंरौढिं दधानैरपि ।

यावलोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते
 

ताच्चन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः ॥१७॥
 

त्रिलोचनस्य ।
 

-----------
अथ मेघान्योक्तयः ॥ ४२ ॥
 

765
 

एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्त्र ।
य ।
विश्वं सशैलकाननमाननमवलोकते यस्य ॥ १ ॥

प्रह्लादनस्य ।
 

766
 

संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः ।

जलद त्वाय विश्राम्यति सृष्टिरियं भुवनलोकस्य ॥ २ ॥
 

वस्तुपालस्य ।